अत्र नखिनां च नदीनां चेति पृष्ठ्यन्तच्चकारेण रीतेरुपक्रमे शृङ्गिणां शस्त्रपाणिनामिति चकारानिर्वाहात् स्त्रीषु राजकुलेषु चेति षष्ठीपरित्यागादमधुरार्थत्वाच्च माधुर्यविपर्ययनामायं शब्दार्थप्रधानो गुणविपर्ययो दोषः । यदाह—