माधुर्यव्यवत्यय इति । शब्दार्थयोश्चित्तद्रुतिविध्रायित्वं माधुर्यम् । निचुलितत्वमिवार्द्रतापदाभिधेया चेतसोऽवस्था तत्कारिता माधुर्यम् । सा च शृङ्गारकरुणान्यतरप्रकाशानुगुणव्यापारावेशेन भवति । यदाह—‘शृङ्गार एव मधुरः परः प्रह्लादनो रसः । तन्मयं काव्यमाश्रित्य माधुर्यं प्रतितिष्ठति ॥ शृङ्गारे विप्रलम्भाख्ये करणे च प्रकर्षवत् । माधुर्यमात्रतां याति यतस्तत्राघिकं मनः ॥’ इति । तत्र शब्दस्य माधुर्यं पृथक्पदतया व्यज्यते । दीर्घसमासस्य यत्नान्तरसाध्यतया सुकुमाररसप्रकाशसामप्रीवहिर्भावात् । ततश्च शब्ददूषणप्रस्तावे पृथक्पदतामात्रप्रत्ययो यद्युच्यते गौडीया दृष्टा स्यात्, इति रीतिखण्डनपर्यवसायितयाभिधानाम् । भवति हि कदाचित्कवेः शक्तिवशात्सोल्लेखेऽपि समासे रसव्यक्तिः । यथा—‘याते द्वारवतीं तदा मधुरिपौ लद्दत्तसङ्गानतां कालिन्दीतटरूढवञ्जुललतामालिङ्ग्य सोत्कण्ठया । उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥’ एवं चास्खलितप्रतीतिविषयस्यैव संदर्भस्य रसत्वं पदघटनारूपस्य च संदर्भस्यानिर्वाहादेव प्रतीतिः स्खलतीत्याह—तदनिर्व्यूढमिति । काव्यसर्वस्वं रसप्रकाशस्तद्वेदिभिस्तदुपायभूतघटनास्वरूपवेदिभिः । एतदेव व्याख्यानेन स्फुटयति—अत्रेति । नखिनां च नदीनां चेति चकारेणोत्तरत्र तत्परित्यागेऽनुपपत्तिर्जागर्ति तदेव प्रतीतेः संवल- नम् । एवमुत्तरत्रापि । अस्तु तर्हि वस्त्वसत्त्वेऽप्येकदिड्याधुर्यसंपत्तौ काव्यताप्रतिलम्भ इत्यत आह—अमधुरार्थत्वाच्चेति । स्पष्टमेतच्छब्दार्थप्रधानता । माधुर्यस्य पूर्वाचार्यसंमत्या द्रढयति—यदाहेति । माद्यन्ति आर्द्रचित्ता भवन्ति । मधुरसादृश्यादयं व्यवहार इत्यत आह—मधुनेति । इदं च घटनाया माधुर्ये परमं रहस्य-035 मित्याह—यया कयाचिदिति । औष्ठ्यकण्ठ्यादिकं वा तद्रूपसमानश्रुतिकमादौ यस्य तथाभूतस्य पदस्य प्रत्यासत्तिः । ‘तद्रूपा हि’ इति पाठे व्यक्त एवार्थः । अत एव सानुप्रासा ततश्च रसावहेत्यर्थः । यदाह—‘कङ्कणादिविमुक्तापि कान्ता किमपि शोभते । कुङ्कुमेनाङ्गरागश्चेत्सर्वाङ्गीणः प्रवर्तते ॥’ इति ॥