यस्तु रीतेरिति । काव्यरूपताप्रयोजकं शब्दार्थयोर्वक्रता उदारता नहि वक्रतामन्तरेण काव्यपदवीप्राप्तिस्तदाह—‘यत्तु वक्रं वचः शास्त्रे लोके च वच एव तत् । वक्रं यदनुरागादौ तत्र काव्यमिति श्रुतिः ॥’ इति । तदेतदलंकारसामान्यमस्याभावे निरलंकारता भवतीत्याह—अनलंकारमिति । दीर्घपुच्छ इत्यादौ प्रकृतोदाहरणे द्वयोरवक्रत्वं स्फुटयति—यथेति । विविच्य गुणप्रस्तावे कथयिष्यामः । अर्थपोषमाह—उत्कर्षवानिति । उभयप्रधानतामुपसंहरति—काव्येति ॥

तदेवं वाक्यदोषाँल्लक्षयित्वा क्रमप्राप्ता वाक्यार्थदोषा लक्षणीया इति तान्विभजते—