अपार्थमिति । उद्देशे दोषाणां व्यासेनोक्तिः पूर्वोक्तप्रयोजनानुरोधेनेति । समुदायिपदानां विशेषणविशेष्यभावः समुदायार्थः । तेन शून्यं पदजातमपार्थकं पदार्थानामसंसर्गेण पदानामसंसर्गोऽभिधीयते । तेनार्थदोषत्वम् । जरद्गव इति । कम्बलपादुकाभ्यामिति लक्षणे तृतीया । न च ताभ्यां वृद्धोक्षस्य संबन्धः । कथं च तस्य मङ्गलानां धवलादीनाम् । ‘मद्रकाणाम्’ इति पाठे गीतकविशेषाणां वा संगतिः, कथं वा पुत्रकामायास्तत्प्रश्नसंसर्गः, कथं च राजन्निति संबोधनं घटते, पुत्रकामायाश्च रुमालवणार्थप्रश्नः । रुमा लवणाकरः । तथा च प्रयोगः—‘रुमाधासकान्तादिलवणात्मवर’ इति ॥