उक्त्यभिन्नार्थमिति । वाक्यान्तरोक्त्याभिन्नस्तात्पर्यार्थो यस्य तत्तथोक्तम् । तथा हि—‘प्रसाधितस्य-’ इत्यादिश्लोके श्लेषोपहितेन व्यतिरेकेण काप्यपूर्वा कृष्णस्य लक्ष्मीस्तत्काले बभूवेति तात्पर्यार्थः । तेनैव प्रकारेणं ‘कपाट-’ इत्यग्रिमश्लोकें स एवास्ति । तुल्यार्थत्व उपादानं भिन्नार्थत्वेऽपि । तदिदमाह—अनयोः श्लोकयोरिति । महावाक्ये श्लोकद्वयरूपे एकम्, अन्यतरद्दुष्यति । हेयं भवतीत्यर्थः ॥