वाक्यं यत्त्विति । कारयित्वा क्षौरं गामउलो ग्रामप्रधानपुरुष इति देशीयाः । ग्रामेऽपि वा यः कुटोऽव्युत्पन्नः । मज्जिओ अ सुस्नातश्च जिमिओ अ भुक्तवांश्च ततो नक्षत्रं तिथिवारौ च ज्यौतिषिकं प्रष्टुं चलितः । तिथिवारज्ञानान्तरं क्षुरकर्म, ततः स्नानभोजने, इति लौकिकः क्रमस्तस्य विपर्यासो व्यक्त एव श्रुतिवचनात् । क्रियमाणेऽपि रचनावैपरीत्येन क्रमभ्रंशः समाधीयत इति नासौ शब्ददोषः । अत्र पूर्वार्धोपात्तानां क्रमो न विपर्यस्तः किंतु क्षौरोत्तरार्धोक्तयोरित्याह—अत्र क्षुरकर्मण इति ॥