जात्यादीति । वाक्यार्थो द्विविधः—स्वतःसंभवी, कविप्रौढोक्तिनिर्मितश्च । तत्रासति विशेषहेतौ यज्जातीयमर्थ बुध्द्या व्यवस्थाप्य वचनोपक्रमस्तज्जातीयस्यैव समस्तवाक्यनिर्वाहो युक्तो न त्वन्तरेण परित्यागेन भेदः । उपक्रान्तमिर्वाहाशक्तो लोके खिन्न इत्युच्यते । तदिदमुक्तम्—जात्यादीति । आदिपदेन स्वतः संभविविशेषाणामुपमादीनां कविप्रौढिनिर्मीतानां च रूपकादीनां परिग्रहः । विवाह्य नववधूः सासुरअं श्वशुरगृहं दोलिकया नीयमाना रोदितीति स्वतःसंभवी । नवपरिणीतास्वभावलक्षणार्थस्तावदुपक्रान्तस्तथा सति यो जन्माभ्यस्तपितृगृहवियोगवेदनादूनमानसाया अत्यन्तापरिशीलितेन देवरेण संस्थापनप्रकारः स न जातौ निविशते । परिशीलितभर्तृकुलाया कुलायां वा । तस्यौचित्यात्तस्या एव हि किंचन वक्तव्यं भवतीत्याह—अत्र प्रक्रान्तस्येति ॥