एकेन यस्य यमिनः प्रमदेव देहमर्धेन राजति पुमानिव चापरेण ।
तत्त्वक्रमादथ च न प्रमदा पुमान्वा श्रेयांसि वर्धयतु स स्मरशासनो वः ॥
श्रीरामसिंहदेवेन दोर्दण्डदलिताद्विषा ।
क्रियतेऽवन्तिभूपालकण्ठाभरणदर्पणः ॥
कण्ठाभरणमनर्घ्यं वाग्देवीरत्नदर्पणोत्सङ्गे ।
अस्मिन्पश्यतु निभृतं प्रकाशसर्वाङ्गलावण्यम् ॥

ग्रन्थारम्भे समुचितेष्टदेवतानसस्कारेण शिष्टाचारमनुवर्तते—