यदिति । वक्रताव्यतिरेकेऽलंकारसामान्यमेव न स्यदिति निरलंकारमित्युक्तम् । वायन्ति क्षिपन्ति खादन्ति । ‘वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु’ इति धात्वनुसारात् । नन्वस्ति कोलादिस्वरूपमत्र । ततो जात्यलंकारेण वक्रत्वमाक्षिप्यते । विशेषस्य च सामान्यमान्तरीयकत्वात्कथमुच्यते निरलंकारमित्यत आह—अत्रेति । स्वं रूपं चमत्कारकारि कविप्रतिभामात्रप्रकाशनीयं रूपं तदेवालंकारकक्षामधिशेते । न चात्र तथा किंचिदभिहितमतो न जात्यलंकारः । एवमन्योऽप्यलंकारो नास्ति । कथं तर्हि वक्रताभावरूपदीर्घपुच्छ इत्यादेः शब्ददोषाद्भिद्यते तदाह—सविशेषणादिति । तत्र विशेषणप्रयोगे शब्दानामेव वक्रताव्यतिरेकेणापवाद इति शब्ददूषणमिह तु न तथा । किं तूक्तमेव स्वरूपं न वक्रमिति वाक्यार्थ एव दुष्टः ॥