शय्येति । किंचिदेकं वस्तु बुद्धौ समाधाय तदधिकारप्रबन्धरचनायामधिकस्यान्तरान्तरा प्रकृते योजना शय्या । पदार्थानां प्रस्तुताप्रस्तुतवस्तूनाम् । तच्च योजनीयं शब्दार्थभेदेन द्विविधम् । तत्र वस्तुवाक्ययोरेव योजना महाकविप्रबन्धेषु दृश्यते । अर्थस्तु प्राकरणिकार्थोपयोगी तदनुयोगी चेति द्विविधः । द्वितीयोऽप्यतिक्रान्तोऽतथाभूतश्चेति पूर्ववद्विभागवाक्यं व्याख्येयम् ॥