शुद्धा साधारणीति । इह भाषारूपविषयभेदेन भिन्नाः संस्कारा यानधिकृत्य पाणिनि-वररुचि-प्रभृतीनामनुशासनानि व्यवतिष्टन्ते । तद्यत्रैक एव संस्कारः प्रत्यभिज्ञायते सा शुद्धा । संस्कारान्तराग्रहणात् । यत्र तु लक्षणसंभेदेन नानासंस्कारसंपातः क्षीरनीरवत्सा साधारणी । रूपसाधारण्यान्नरसिंहवद्भाषाभेदव्य-144 वस्थितभागद्वयात्मिका मिश्रा । रूपमिश्रणात्तिलतण्डुलन्यायेन संकीर्णा । विजातीयवस्त्वन्तरव्यतिरेक एव लोके संकीर्णव्यवहारात् । या पुनः प्रकृतिभावेनापि भाषान्तरसंपर्कं न सहते सानन्यगामिनी । संस्कारसंभेदेन वा प्रकृतिभावेन वा नान्यं गच्छति यतोऽपशब्दरूपा सापभ्रष्टा ॥