अत्र श्रावणादीनामयुगपद्भावित्वेन विप्रकीर्णानां घटनादियं प्रकीर्णघटना । प्रकीर्णशब्दश्चायं शेषवाची । तेनान्यासामपि प्रकीर्णघटनानामिहावकाशो भवति, तेन या इमा महाकविप्रबन्धेषु मुख्यगौणीलक्षणास्तद्भावापत्तिरुपचरिता लक्षितलक्षणेति शब्दवृत्तयस्ता अपीह श्रूयन्ते । यत्रादितः षट्स्वाधारवचनेषु मुग्धाया इति संबन्धिपदे च 186 मुख्या । शेषयोर्द्वयोराधारवचनयोर्गौणी । श्रावणादिषु चतुर्षु मासवचनेषु लक्षणा । षट्स्वपि चाधेयवचनेषु वर्षादिषु लक्षिताभिहितेष्वपि युगपदसंभवत्सु श्रुतार्थापत्तिलभ्या तावद्भावापत्तिः । आवासित इति क्रियापदं चोपचरिताव्यक्तमेव प्रतीयते । लक्षितलक्षणापि चैतास्वेव व्याख्यानत उन्मिषति । तथाह्यावासितशब्दोऽयमभिमतप्रदेशनिवेशितमहापरिच्छदे महाराजादौ निरूढाभिधानशक्तिः । स उपचारेण श्रावणादिषु प्रयुज्यमानस्तेषामपि महत्त्वमभिलक्ष्य महापरिच्छदतां महासंभवत्वं च लक्षयन् प्रस्तुताया अपि प्रवृत्तेर्महान्तमनुबन्धं लक्षयति । ते च युगपल्लोचनादौ चानुपपद्यमानस्थितयः स्वशब्दशक्तितस्तत्र तत्र च निवेश्यमानाः स्वधर्मसंपदः प्रत्यासन्नायां तद्धर्मसंपदमुपलक्षयन्ति । असावसौ विरहवत्या अपि वियोगवेदनातिशयं लक्षयन्ती कमितरि स्नेहातिशयं लक्षयति । तत्र श्रावणो भाद्रपद इत्येताभ्यामवयवाभ्यां वर्षर्तुर्लक्ष्यते । स च लोचनयोरनुपपद्यमानस्थितिरपि विभक्तिश्रुत्या निवेशितः पयःपृषत्प्रवाहलक्षणायाः स्वधर्मसंपदः प्रत्यासन्नामविच्छिन्नाश्रुसंपदमुपलक्षयन्समागमोत्काया उत्कण्ठातिशयं लक्षयति । माधव इत्युत्तरावयवेन वसन्तो लक्ष्यते । सोऽपि महीतलस्रस्तरेऽनुपपद्यमानस्थितिः प्राग्वदेव शब्दशक्त्या निवेशितः कुसुमकिसलयमृणालकमलिनीदलादिकायाः स्वधर्मसंपदः समासन्नां शिशिरोपकरणसामग्रीमुपलक्षयन्कामवत्याः शरीरान्तस्तापं लक्षयति । शरदित्यनेन ऋतुविशेषोऽभिधीयते । सा गण्डयोरनुपपद्यमानस्थितिः प्रशंसावचनस्यापि स्थलशब्दस्यानुस्मरणशत्त्क्या समाकृष्यमाणकाशकुसुमहंसागमनकुमुदसरःप्रसादचन्द्रातपादिकायाः स्वधर्मसंपदः समासन्नं गण्डयोः पाण्डुभावं लक्षयन्मृगेक्षणाया विरहकार्श्यमुपलक्षयति । ग्रीष्म इत्यनेनापि ऋतुविशेष एवोच्यते । सोऽप्यङ्ग-187 नाङ्गेऽनुपपद्यमानः सूर्यांशुकार्कश्यप्रतप्तपांसुतापपरुषोष्मानिलत्वदावाग्निकालुष्यादेः स्वधर्मसंपदः समानानीकभूताभूतपूर्वानङ्गज्वरलिङ्गसंपदमुपयन्नष्टमीं कामावस्थामुपलक्षयति । मार्गशीर्ष इत्यनेन तु पूर्वावयवेन हेमन्तो लक्ष्यते । तेन च यथा हेमन्ते तिलवनं लूयते तथा तस्याः सुखासिका सांप्रतं लूयत इति लक्षितेनातिशयिनी मनःपीडोपलक्षिता भवति । का पुनः सुखासिका तिलवनयोः समानधर्मता येयं स्नेहनिर्भरता नाम । अभिसारिकाणां च प्रायेण तिलवनाब्जिनीखण्डयोरेव बहुमानप्रसिद्धिः । यदित्थमाहुः—