तत्र शिशिर इत्यनेन ऋतुविशेषेण मुग्धामुखेऽपि पद्मसरसीव शब्दशक्त्या निवेशितेन कमलवनोपप्लवादेः स्वधर्मसंपदो लोकप्रतीतायाः प्रत्यासन्ना मुग्धामुखाम्भोरुहलोचनोत्पलस्मितकुसुमदशनकेसरादेश्छायापरिम्लानिर्लक्ष्यमाणा विप्रलम्भानुभावप्रकर्षमुपलक्षयति । शिशिरलक्ष्मीवर्णनप्रस्तावाच्च ‘मुखमर्धं शरीरस्य सर्वं वा मुखमुच्यते’ इति प्रस्थानप्राधान्यलक्षणया सर्वर्तुभ्यः शिशिर एव प्रधानमित्यपि लक्षितं भवति ॥