अत्र श्रावणादीनामिति । प्रकीर्णं विकीर्णमनेकत्र प्रतीतमिति यावत् । तद्द्विविधम्—कालतः, देशतश्च । अत्र हि श्रावणादिमासर्तुषट्कस्य युगपदसंभवत एकत्र विरहिणीशरीरे युगपद्भावो निबद्धः, सगुणवृत्तिव्यपाश्रयेण श्रावणादिपदे प्रतिपाद्यमानः प्रवासविप्रलम्भप्रकर्षमावेदयतीति । एवं देशविकीर्णघटनाप्युदाहार्या । यथा—‘अमृतमभृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यपि । इति न भजते वस्तुप्रायः परस्परसंकरं तदियमबला धत्ते भावान्कथं सकलात्मकान् ॥’ यस्त्वत्र सिद्धादिभेदः कश्चिदुपवर्णितः स तथा न चमत्कारकारीति ग्रन्थगौरवभयादुपेक्षितोऽस्माभिः । तत्तदनेकासाधारणरूपाण्यपि प्रकीर्णानि प्रकीर्णपदेन ग्राह्याणि । तेषामनुक्तान्य (?) तया वोपग्रहोऽपि प्रयुज्यत इत्याह—प्रकीर्णशब्दश्चायमिति । व्याख्यानान्तरप्रयोजनमाह—तेनेति । शब्दस्यार्थप्रतिपादनशक्तिरभिधा । सा त्रिधा—मुख्या, गौणी, लक्षणा च । तासु मुखमिव प्रथमं यस्यामर्थः प्रतीयते सा मुख्या, तथाभूतार्था तद्भावापत्तिश्च । तत्रावान्तरार्थसंबन्धविषया तथाभूतार्था । यथा—‘स्वात्मेन्दुवह्निपवनार्कमहीपयोभिरष्टाभिरेव तनुभिर्भवता समस्ते । व्याप्ते जगत्यपरमिच्छति योऽत्र वक्तुं कोऽन्यो गतत्रपतया सदृशोऽस्ति तेन ॥’ सैवार्थान्तरस्वार्थसंबन्धविषया तद्भावापत्तिः । अतथाभूतस्य तथात्वापादनं हि सा । अत एव स्वतोऽन्यतो वा स्वार्थावच्छिन्नस्य साक्षादभिधानशक्तिरेव मुख्येत्याचार्याः । यथा—‘कमला अण्णसणीआ हंसा उड्डाविआण अपि उच्छा । केण वि गामतडाए अब्भं उत्ताणअं वूढम् ॥’ गुणव्यवहितार्था गौणी । [साद्विधा] गुणनिमित्ता उपचारनिमित्ता च । तत्र द्वयोर्द्रव्यवचनयोर्यत्र सामानाधिकरण्येन वैयधिकरण्येन वा प्रयोगे विशेषणविशेष्यभावान्यथानुपपत्त्या प्रतीयमानाभिधीयमानगुणद्वारकसंबन्धो भवति सा गुणनिमित्ता । यथा—‘पडिवक्खमण्णुपुञ्जे लावण्णकुडे अणङ्गगअकुम्भे । पुरिससअहिअअभरिए कीस खलन्ती थणे वहसि ॥’127 मुख्यया गौण्या वान्यविशेषणस्यान्यत्र प्रयोग उपचरिता सापि गुणयोगमुपजीवन्ती गुणवृत्तिरेव । एतावांस्तु विशेषो यद्गुणनिमित्तायामभिधेयगुणयोगः, इह तु स्वाभिधेयविशेष्यगुणयोग इति । यथा—‘परार्थे यः पीडामनुभवति निर्व्याजमधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः । न संप्राप्तो वृद्धिं सपदि भृशमक्षेत्रपतितः किमिक्षोर्दोषो यन्न पुनरगुणाया मरुभुवः ॥’ स्वार्थसंबन्धव्यवहिता 189 लक्षणा । तदुक्तम्—‘अभिधेयाविनाभूतप्रतीतिर्लक्षणेति या । सैषा विदग्धवक्रोक्तिजीवितं वृत्तिरिष्यते ॥’ सा द्विधा—शुद्धा, लक्षितलक्षणा च । तत्र साक्षात्स्वार्थसंबन्ध्यविनाभूतविषया शुद्धा । यथा—‘यत्तालीदलपाकपाण्डुवदनम्’, 'अभिनवकरिदन्तच्छेदपाण्डुः कपोलः’ इति । यया पूर्वपूर्वलक्षितमेव लक्ष्यते सा लक्षितलक्षणेति केचित् । यथा—‘मधु द्विरेफः कुसुमैकपात्रे’, ‘भीमो भीमपराक्रमः’ इति । अत्र हि द्विरेफादिना शब्देन लक्षित एव भ्रमरप्रभृतिर्लक्ष्यते न तु कुररादिः । अन्ये तु लक्षणाव्यवहिता लक्षणा लक्षितलक्षणेत्याहुः । यथा—‘सुवर्णपुष्पां पृथिवीं चिन्वते पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानातिं सेवितुम् ॥’ तद्भावापत्त्यादिविशेषसमभिव्याहारेण मुख्यादिशब्दास्तदितरतथाभूतत्वागोचरा इति पूर्ववव्द्याख्येयम् । क्व पुनः पदैकावृत्तिरित्यत आह—अत्रेति । ‘एक्कहि अच्छिहिं अण्णहिं महिअलसत्थरे गण्डत्थले अङ्गहिं’ इत्यादि षडाधारवचनाः । अत्र यद्यपि गण्डस्थलपदं गौणमेव, तथाप्यनादिप्रयोगयोगितया मुख्यकल्पमिति षट्स्वाधारवचनेष्वित्युक्तम् । अङ्गादिपदानि च स्वार्थविशिष्टान्यपराण्येव प्रयुक्तानीति मुख्यैव वृत्तिः । एवं मुग्धाया इति संबन्धिपदेऽपि । 'सुहच्छितिलवणे मुहपङ्कअसरि’ इति द्वावाधारवचनौ शेषौ । अत्र तिलवनसरःपदयोः स्नेहनिर्भरत्वसरसत्वलक्षणगुणद्वारकैव सुखासिकामुखपङ्कजयोर्वृत्तिः । मुखपङ्कजसरसीत्यत्र यद्यपि पदद्वयं गौणं तथापि पङ्कजपदस्य वृत्तिरभिधातुल्येति न कविसंरम्भगोचरस्तेन व्यवहारोऽयुक्तः । ‘सावण-भद्दवअ-माहव-मग्गसिरु’ इति चत्वारो मासवचनाः । ते च स्वार्थसंबन्धव्यवहितं वर्षाप्रभृतिसभुदायं लक्षयन्तीति वक्ष्यमाणरीत्या वर्षादयः षडाधेयवचनास्ते च विरहवतीशरीरे युगपच्चासंभवदवस्थितयो जलादिसंपदादिस्वस्वप्रवृत्तिनिमित्ताध्यासेन प्रयुज्यमानास्तद्भावापत्तिरूपां वृत्तिमासादयन्ति । अस्याश्च विवर्तपरिणामाध्यासादयः षट्प्रकारा गौरवभिया न दर्शिताः । श्रुतार्थानुपपत्तिमूला कल्पना श्रुतार्थापत्तिः । राजादेरासिते आवासितशब्दो मुख्यवृत्त्यैव विशेषणतया रूढः । स स्वविशेषगुणव्यवहितेऽर्थान्तरे प्रयुक्तो गौणीवृत्तिमनुभवन् वसन्तादेरपि विशेषणतामासादयति । लक्षणाव्यवहिता लक्षणा लक्षितलक्षणा । सा कथमावासितेतिशब्दे संपद्यत इत्यत आह—स उपचारेणेति । कथंचित्सारूप्येण श्रावणादिषु प्रयोगादुपचारस्तमुपजीव्य प्रयुक्तः स्वार्थाविनाभूतं महत्त्वादिकं प्रकृतेषु लक्षणया संक्रामयतीति । आद्या लक्षणा तव्द्यवहितां द्वितीयामाह—प्रस्तुताया अपीति । आवासितस्यापि हि यथोक्तविशेषणस्य 190 परदुर्गग्रहणादौ महाननुबन्धो दृष्टः । स इह प्रस्तुतायां विरहवतीसंतापलक्षणायां प्रवृत्तौ लक्ष्यत इत्येकलक्षणाव्यवधानेनेयं लक्षणा । एवं लक्षणाद्वयव्यवधानेनापि भवतीत्याह—ते चेति । श्रावणादयः स्वधर्मसंपदो निरन्तरवर्षणादेः स्वार्थाविनाभावेन लक्षितायाः प्रत्यासन्ना सदृशी तेषां लोचनादीनां धर्मसंपदश्रुप्रभावादिलक्षणा लक्ष्यत इति द्वितीया लक्षणा । तत्पुरःसरां तृतीयामाह—असावसाविति । एवं लक्षणात्रयपूर्वापि लक्षणा बोद्धव्येत्याह—कमितरीति । स्नेहप्रतीत्या तु विभावादिसंवलितया रसो व्यज्यते, न तु लक्ष्यत इत्यन्यत्र विस्तरः । कस्याः पुनः स्वधर्मसंपदः प्रत्यासन्ना का तद्धर्मसंपदित्यतो विवेचयति—तत्रेति । यदि श्रावणादिपदेषु समुदायलक्षणा न स्यात्तदा मासानुपक्रम्य ऋतूनामभिधाने प्रक्रमभेदो भवेत् ! न भवेच्च तत्तदृतुप्रतीत ऋतुसंपत्प्रतीतिः क्वचिदिति युक्तैव समुदायलक्षणा । एताभ्यामिति । प्रत्येकं न तु पदद्वये लक्षणा संभवति । विभक्तिश्रुत्येति । सप्तमीप्रथमाविभक्तिभ्यामाधाराधेयभावः स्वशक्त्या प्रतिपाद्यते तदनुपपत्त्यार्थान्तरलक्षणा प्रादुर्भवति । एवं चैत्रवैशाखसमुदायात्मनो वसन्तस्योत्तरावयवो वैशाखस्तद्वाचकेऽपि माधवपदे समुदायलक्षणाद्वारेण लक्षणा भवति । प्रशंसावचनस्यापीति । गर्भीकृतसारूप्या हि व्याघ्रादय उपमेयवाचिभिः समस्यन्ते । तच्च सारूप्यं प्रकर्षलक्षणमेवेति प्रशंसापरत्वे स्थितेनाभिधेयमप्रतीत्यसारूप्यं वा रूपान्तरं वा प्रत्येतुं न शक्यत इत्यभिधेयप्रतीत्यनुनिष्पादिनी घण्टानुस्वानसोदरा स्वधर्मसंपद्यथोक्ता प्रतीयते । स्वने किल शरदाकाशकुसुमहंसादिका स्वसंपद्विस्तार्यते । न मुखचन्द्रादिवत्सुखासिकातिलवनयोः सादृश्यप्रतीतिर्न च तदभिधीयमानं किंचिदत्रास्तीति पृच्छति—का पुनरिति । मा भूत्तथा प्रसिद्धिः कवेरभिप्रायारूढा तु प्रतीयत इत्युत्तरमाह—येयमिति । न स्नेहो नाम द्वयोरेकः कश्चिदस्ति न चानभिधीयमानमपि सादृश्यं शब्दसामान्यमाश्रयत इत्यतः प्रकारान्तरमाह—अभिसारिकाणां चेति । कथमेतदवगतमित्यत आह—यदित्थमिति । ननु कमलिनीशब्दस्यात्र बहुमानगोचरता प्रतिपादिता, न तु तिलवनस्येत्यत आह—अत एवेति । उपमानोपमेययोर्द्वयोरपि कामिनीबहुमानगोचरतां वितरन्ती शिशिरेण सांप्रतं तिलवाटिकालवनमपि वर्तत इत्यभिप्रैतीति भावः । ‘मुखमर्धं शरीरस्य’ इत्यादिन्यायेन मुखशब्दः प्राधान्यं लक्षयति, ततो मुखपङ्कजसरसि शिशिर इति तद्भावापत्त्या हेमन्तस्यापि ऋतुषु प्रथमतया प्राधान्यमेव द्योतितमिति । तदुक्तम्—‘पडिकम्मदूइपेसणभाणग्गहणेसुभासुरपहुय्यन्तो । हेमन्तिओ सुहाअइ मलिणमिअङ्को वि कामिणीणयओसो ॥’

  1. ‘प्रतिपक्षमन्युपुञ्जौ लावण्यकुटावनङ्गगजकुम्भौ । पुरुषशतहृदयधृतौ किमिति स्खलन्ती स्तनौ वहसि ॥’ [ इति च्छाया ।]