काकुस्वरेति । किंचिदेकपरतया प्रवृत्तमुच्चारणमर्थान्तरविवक्षया यदन्यथा क्रियते सा पठितिः । अन्यथाकरणं च काकुप्रभृतिभिः षड्भिरिति । तत्र ‘भिन्नकण्ठध्वनिर्धीरैः काकुरित्यभिधीयते ।’ सा द्विधा—विधिकाकुः, निषेधकाकुश्च । तयोर्निषेधे परोच्चारणान्यथाकरणेन विधिपर्यवसायिनी विधिकाकुः । यथा—‘शल्यमपि स्खलदन्तः सोढुं शक्येत हालहलदिग्धम् । धीरैर्न पुनरकारणकुपितखलालीककटुवचनम् ॥’ एवं विधिपरोच्चारणान्यथाकरणेन निषेधव्यञ्जिका निषेधकाकुः । तामुदाहरति—यदीति । यदि दूती प्रिया तदाहमपि प्रियेत्यादि ऋजूक्त्या शठनायकविषया कृत्रिमा प्रीतिः प्रतीयते, काक्वा तु तवैव नाहं प्रियेतीर्ष्यारोषः ॥