स्वराः प्लुतादय उदात्तादयश्च । नामीषां वेद इव काव्ये भूयान्प्रयोग इति किंचिदुदाहरति—सुभ्रूस्त्वमिति । चरणतलाग्रपतिते मयि दृष्टे सति त्वं प्रसीदेति दीर्घमात्रोच्चारणे कुपितकान्ताप्रसादपरत्वं, यथोक्तप्लुतकरणे तु दूराह्वानादौ तदनुशासनात्कुपितदृष्टिसंबोधनवुद्धिरुपजायते । अशनादयो हि द्वयोः साधारणा 192 एवेति श्लेषोपादानमेवेति । एवं ह्रस्वस्य दीर्घकरणेन दीर्घस्य ह्रस्वकरणेनार्थान्तरप्रतीतिरवसेया । यथा—‘विश्वामित्रो विश्वानरः’ इति ऋषिराजर्षिविशेषौ प्रतीयेते तथा युवतीति संबोधनप्रतीतिः । एवमुदात्तादयोऽपि यथादर्शनमुत्प्रेक्षणीयाः ॥