तासूत्तमेति । पात्रलक्षणमुत्तमादिभेदश्च पञ्चमे वक्ष्यते । उन्नमितैकेति । पदानि प्रकृतानङ्गलेखोचितानि निर्व्याजप्रेमगर्भाणि । अत एवावापोद्वापप्रतिसंधाननिमग्नमानसायाश्चिन्तानुभावरूपं भ्रूलताविरेचितमिवासीत् । हस्ततलनिहितैककपोलायास्तादृक्पुलकितैककपोलदर्शनादतिमानात्मा शृङ्गारः सुप्रबुद्ध इव तत्कालं नायकस्यापीति मिथोऽनुबन्धलक्षणापूर्वानुरागकक्षामधिरूढा रतिरेव काव्यसर्वस्वायते । अत्र च कस्यचित्पदस्य भाषान्तरसाधारण्येऽपि भूयसामुदाहरणत्वम् । एवमन्यत्रापि ॥