यस्यारिजातमिति । कान्तिश्छाया सा अप्रतिहतरूपा पदवद्वर्णेषु न संभवतीति श्रुतिरूपा गृह्यते । तथाहि । अवलम्बनमित्यत्र द्वितीयचतुर्थस्थानस्थयोर्वकारबकारयोः क्रमेणान्तःस्थपवर्गभावानुसंधानेऽवलम्बनमित्येकपदतायां त्राणहेतुमपश्यदित्यर्थः प्रतीयते । यदा तु द्वितीयेऽबलं वनमित्यत्र तयोरेव पवर्गान्तःस्थभावानुसंधानं भवति तदा बलं वनमिति च्छेदेन पदद्वयसंपत्तौ बलरहितं सद्वनमरण्यं ययावित्यर्थान्तरप्रतीतिरुपजायते । तदिदमुक्तम्—पदे पदद्वये 195 वेति । अपश्यत् शयनभोजनशून्यम् । शयनं शीः, अदनं अत्, निर्झरसंभोगैः निर्झरजलमात्रोपभोगैरप्यपगतं अत एव बलरहितम् । अत्र च यमकेन संसृष्टिरस्य बोद्धव्या । आवृत्तिमादाय यमकमन्यथा भविष्यति ॥

अपरे पुनः पठितिमन्यथा कथयन्ति—