अथावृत्त्युपजीविनोऽलंकारा लक्षयितव्याः । तेषां समग्रकाव्यपर्यन्तावृत्तिसमाश्रयणाद्यमकं प्रधानमित्याशयेनाह—विभिन्नेति । विभिन्नार्थेत्यर्थाभेदव्यतिरेकपरम् । तेन द्वयोरेकस्य वा निरर्थकत्वेऽपि यमकमुपगृहीतं भवति । एवमपि ‘सरो रसः’ इत्यादावतिप्रसङ्ग इत्यत उक्तम्—एकरूपेति । रूपमानुपूर्वी, विभिन्नार्था चासावेकरूपा चेति विग्रहः । विविधधवेत्यादावेकवर्णावृत्तावप्यावृत्तिसमुदाय एव यमकक्रममुल्लिखतीत्यभिसंधाय संहतेरित्युक्तम् । विभिन्नार्थैकरूपाया वर्णसंहतेर्या आवृत्तिः सा यमकमिति व्यवहितेनान्वयः ॥

आवृत्तिर्द्विधा—अनावृत्ता व्यवहिताव्यवहिता चेति ।