राजीवराजी पद्मपङ्क्तिस्तद्वशा लोलाः सस्पृहा भृङ्गा यत्र तम् । यतस्ततिभिस्तरूणां पङ्क्तिभिरुष्णं धर्मं मुष्णन्तमपहरन्तम् । कान्तो मनोज्ञोऽलकान्तश्चूर्णकुन्तलच्छटा यासां ताः । यस्माद्रक्षोभी राक्षसैरक्षोभितमधर्षितम् । अत्र प्रथमे पादे पूर्वं सार्थकमपरमनर्थकम् । द्वितीयादिषु द्वयमप्यनर्थकम् । एवमन्यत्रापि यथायथमवगन्तव्यम् ॥