गाः कूजितानि कदम्बसौरभानीतवर्षर्तुपयोदाः कलयन्ति कलरूपतां नयन्ति । कूजितक्रियान्तरालकालो द्रुतमध्यविलम्बितात्मानेको लयः । अभ्रं मेघः । नीपः 205 कदम्बः । कदम्बवनधूननेन सर्वतः सौरभसंचारोपपत्तिः । अत्र विहगा इत्यादिकं प्रतिपादमाद्यन्तयोरनावृत्तवर्णषट्कव्यवहितमेवावर्तते ॥