नात्युत्तमेति । उत्तमादपकृष्टं मध्यमादुत्कृष्टं नात्युत्तमम् । ‘प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्नप्रतिबिम्बम् । दशसु नखदर्पणेष्वेकादशतनुधरं रुद्रम् ॥’ एवं नाम देवीकोपे भगवतः प्रणयकातरता येन युगपदिव सर्वाभिरपि मूर्तिभिः प्रणमतीति प्रतीयमानोत्प्रेक्षा ॥