सारयन्तमात्मसमीपमानयन्तम् । उरसा घनतरस्तनाढ्येन । सारभूतं जीवितसर्वस्वतामापन्नम् । उरुर्महान् । सार उत्कर्षः । अनुकृतसारसा सारसकूजितसंवादिनी । सारसा सशब्दा काञ्चिर्मेखला यस्याः सा तथा । सारसानुकृतेति ‘जातिकालसुखादिभ्यः परा निष्ठा वक्तव्या’ इति निष्ठायाः परनिपातः । रसायनं सर्वोपद्रवहरं भेषजम् ॥