क्रमप्राप्तमस्थानयमकं लक्षयति—नादाविति । आदावेवेत्यादिनियमेन स्थानयमकमुक्तं तदभावे त्वस्थानयमकं भवति । तत्किमाद्यादिस्थानमिदं नाश्रयत एव । नेत्याह—संधौ वेति । संधौ पादसंदंशे एकस्यादिपरस्यान्त इति । नेदं स्थानयमकं तद्धि प्रतिपादं स्थाननियमेन निरूप्यत इत्युक्तप्रायम् । अव्यपेत-209 व्यपेतमिति । द्वाभ्यामप्यन्वीयते । तत्प्रथमं पादश्लोकतया द्विविधमित्याह—पादे श्लोके चेति । पादसंधौ च यद्बध्यते तत्स्वभेदे चान्यभेदे च स्थूलं सूक्ष्मं च भवतीत्यर्थः । एतद्यथास्थानं विवरिष्यते—स्थूलं सूक्ष्मं चेति पूर्वेणापि संबध्यते । बहुवर्णावृत्ति स्थूलम्, अबहुवर्णावृत्ति सूक्ष्मम् ॥