वीनां पक्षिणां वृन्दम् । कूटे श्रृङ्गे । समरुति मारुतसहिते । सुतरुणि शोभनवृक्षे । कूटविशेषणद्वयमिदम् । समरुति समानकूजिते । सुतरुणीति प्रियासंबोधनम् । वाशब्द इवार्थे । सुरमणीनां देवमणीनां गुणेन दाम्ना रोचते शोभत इति क्विप् । तस्मिन्क्रोडे । सुरमणीति संबोधनम् । गुणेषु रुचिर्यस्य तद्गुणरुचि चित्तम् । अत्र समरुति सुतरुणि सुरमणि गुणरुचीति द्वितीयचतुर्थपादयोर्वर्णाष्टकावृत्तिद्वयमिति पादव्यापकमव्यपेतमुच्यते ॥