रुरुर्बहुश्रृङ्गो मृगः । उरुरतिरुपचितप्रीतिः अतितनुरतिकृशा तनुर्यस्या इति संबोधनह्रस्वः । मतिमति मतिरुचितज्ञानं तद्वतीत्यपि संबोधनम् । पश्येति वाक्यार्थकर्मकम् । गुरु विपुलम् । गुरुः शुक्रः । मयो दैत्यविशेषः । तद्युक्तं तरितरि विजयमाने मयि सति । सतीति संबोधनम् । सती शोभना । यथा मयदैत्यानीकविजये लोकोऽयं सुखमास्ते तथासौ रुरुरिति वाक्यार्थोऽभिमतः । तदिदं वर्णद्वयावृत्त्या सूक्ष्मं न चान्योन्यव्यवहितमव्यवहितमित्यव्यपेतं च भवति । तदेतदेकस्मिन्नपि पादेऽनुक्तद्वयादिपादविकल्पेन च बोद्धव्यम् ॥