पादसंधाविति । ‘स्वभेदे चान्यभेदे च’ इत्यत्र व्यपेताव्यपेतयोः स्वत्वमन्यत्वं च व्याख्येयं प्रकरणात् । तत्त्वे प्रसङ्गे च यथासंभवं सप्तमी योजनीया । मदेन प्राप्तरागापि तत एव मन्मथोन्मादेन तापिता उत्तापं गतापि यदात्मानमबला न योजितवती तन्नूनं मदेनसा मदीयदुरितेन भूयोऽपि मानरसं प्रापिता स्यात् । अत एवेयते वक्तुमशक्याय संतापाय नासेति काक्वा तापप्रकर्षभणनम् । योजितेति । योजयतेर्गत्यर्थत्वमाश्रित्य कर्तरि क्तः । ‘गत्यर्थाकर्मक-’ इत्यादौ चकारस्यानुक्तसमुच्चयार्थत्वाद्वा । अत्र प्रथमद्वितीययोस्तृतीयचतुर्थयोश्चान्तरतो विच्छिद्य पाठे क्रियमाणे संधिषु व्यपेतप्रसङ्गः स्यात् । निरन्तरपठितौ तु स निवर्तते । 212 यथैव च वृत्तौचितीवशात्सौभाग्यमुन्मिषति, तेन व्यपेतबाधादव्यपेतपुरस्कारस्तदिदमाह—अत्रेत्यादि । संदंशः संधानम् ॥