सतमेति । तमोऽत्र गहनता तया सतमाः सान्धकारम् । पारा नाम नदी तस्याः पारे आयतो विस्तीर्णो दावो वनं तद्बहुलत्वाददावो वनवह्निप्रभावरहितो लोकालोकश्चक्रवालाख्यः पर्वतस्तदनुकृतिस्तत्सदृशो यः सोऽयं सह्यनामा गिरिरभ्रकूटशून्यैः कूटैः शृङ्गैर्लक्षितः । हिशब्दो वाक्यालंकारे । अत्र प्रथमतृतीययोरादौ द्वितीयचतुर्थयोराद्यन्तयोर्व्यपेतयमकमेव वर्तते । तदनुच्छेदेनैव संदंश-213 पाठादियमकयोराद्यन्तयमकयोश्चाव्यपेतादिमध्यान्तयमकता प्रकाशते । यतो द्वितीयचतुर्थपादयोरादिमध्यान्तयमकमेव मध्ययमकभूमिकामवगाहते । अत्रापि वृत्तौचिती गवेषणीया । तदेतद्विवरणे व्यक्तमेवेति ॥