सनाकेति । नाकवनिताः स्वर्गस्त्रियस्ताभिः सहितम्, यतो नितम्बे स्वच्छन्दविहरणोचिते रुचिरं मनोज्ञम्, सुनिनदैः शोभनशब्दैर्महाफणवान् वासुकिरवतो रक्षतो रसपरा रसनीयेषु श्रेष्ठा । परास्तवसुधा त्यक्तभूभागा । सुधा पीयूषम् । अत्र प्रतिपादं नितं नितमित्यादिकमव्यपेतम् । संधिषु च विरतिपाठे चिरं चिरमित्यादि व्यपेतं प्रतीयते । तत्र संदंशे क्रियमाणे व्यपेतं निवर्तते । अव्यपेतं तु मध्ययमकमवतिष्ठत एव । तत्सर्वमिदमव्यपेतमेव जायते । अत्रापि वृत्तौचिती पूर्ववदेव शरणमित्युपसंहारे दर्शयति—उभंयमपि चैतदिति । स्थूलसूक्ष्मभावेन संधियमकमुभयम् ॥