अखिद्यतेति । यस्य गिरेस्तटे रविमादित्यमुदग्रतापं दधानेऽपि भृङ्गावलिर्भ्रमरमाला नाखिद्यत । यतोऽरविन्दधाने पद्मानां निधानभूते निपीतरसा आस्वादित-214 मकरन्दा । अत एव मत्ता नमन्ति तामरसानि यस्याः सकाशात्सा तथा । भरनमितपद्मकुहरप्रवेशान्मधुरससेवया च भ्रमरमालया खेदो नाधिगतः । अत्र द्वितीयचतुर्थपादयोः ‘रविं दधाने रविन्द्रधाने’ इति, ‘रसा नमत्ता रसा न मत्ता’ इति द्वाभ्यामेव वृत्तिभ्यां व्याप्तत्वादाद्यादिविभागासंभवे अस्थानयमकमेवेदम् । व्यपेतं तु कथं भवतीत्यत आह—मा भूदिति ॥