हे जयन्ति, ये तव देहं दुर्गातारादिरूपेण प्रपञ्चमानां मूर्तिं सदा नमस्यन्ति ते जयन्ति सर्वोत्कर्षेण वर्तन्ते । यतस्त एव भवान्संसारसरणिमस्यन्ति क्षिपन्ति । भवात्परमेश्वरात् अन्यता भेदस्तेनोनमतः श्रेयस आदानं ग्रहणं यत्र तादृशी ईहा चेष्टा यत्रेति द्वयमसनक्रियाविशेषणम् । अत्र जयन्ति ते इति प्रथमद्वितीययोराद्यन्तौ 215 सदादेहमिति प्रथमचतुर्थयोरन्तादी नमस्यन्तीति द्वितीयतृतीययोर्भवान्यत इति च तृतीयचतुर्थयोराद्यन्तौ च स्थूलावृत्त्या व्याप्ताविति अनावृत्तभागाभावाच्छ्लोके स्थूलव्यपेतमस्थानयमकमिदम् ॥