नातिहीनेति । हीनात्किंचिदुत्कृष्टं मध्यभादपकृष्टं नातिहीनम् । लइ वप्पुलेति । लइ गृहाण । वप्पुलेत्यनुकम्पासंबोधने । पिब दुग्धम् । कुतोऽस्माकं छासि-146 पदाभिधेयं तक्रम् । पुत्तहुमत्थे इति शपथः, पुत्रस्य मस्तकेनाहं शपे यदि तक्रस्य व्यापकं दघि जन्मन्यपि जातमासीदिति व्यापकानुपलब्धिः प्रयुक्ता ॥

ननु प्राकृतादिषूत्तमादिपात्रव्यतिकरदर्शनात्कथमेषा व्यवस्था घटत इत्यत आह—प्रायिकमिति । यत्र प्रकृतिनिर्वहणोचितविशेषाभिसंधानेन कविरन्यथा प्रवर्तते । यथा मालत्यां संस्कृतमाश्रित्य ‘एषोऽस्मि भोः कार्यवशात्प्रयोगवशाच्च प्राकृतभाषी संवृत्तः’ इत्यादि । यत्र वा कवेर्व्युत्पत्तिकृतो भाषाविपर्यासः शक्त्या तिरस्क्रियते । यथा मृच्छकटिके विटस्य मध्यमपात्रस्यापि संस्कृतोक्तिः । यत्र वा प्रबन्धौचितीपरवशाः संस्कृतादिजातयो विपर्यस्यन्ते । यथा सर्गबन्धादौ मध्यमादेरपि संस्कृतमेव, खण्डकथापरकथादौ उत्तमादेरपि प्राकृतमेव, बृहत्कथादौ पैशाचमेव, वस्तुबन्धादावपभ्रंश एवेति, तत्र संधिसंध्यङ्गघटनासौष्ठवेन रसः पुष्यतीति भरतमुनिप्रभृतीनामतिप्रकाश एव पन्थाः ॥