सालमिति । सालः प्राकारः । सुराणां तापनं संतापजननं तस्मै हितमल-217 मत्यर्थं सा लङ्का । तपनीयं सुवर्णम् । तापनीयं च तद्भासुरं चेति कर्मधारयः । रक्षसां भरः समूहस्तस्य क्षोभः प्रकर्षजः कोलाहलः । त्रिकूटः सुवेलः । अकलङ्का दोषरहिता । अकलिकानि कलिरहितान्यद्रिकूटानि सुवेलशिखराणि यस्यां सा तथा ।