न मन्देति । मन्दया तत्कालोचितप्रतिपत्तिविधुरया आवर्जितो मान ईर्ष्यारोषलक्षणो यया सा तथा । सात्मा आत्मवती । अनयोः कर्मधारयः । नमन्पादान्ते लुठन्नपि दयावर्जितौ मानसात्मानौ यस्या इति बहुव्रीहेर्डाप् ॥