वल्लकीगुणस्वानो वीणाशब्दस्तस्य मानं या बिभर्ति । कालिम्नः श्यामताया आलया कज्जलप्रभृतीनतीत्य वर्णप्रकर्षेण या स्थिता, तया गातुमुपक्रान्तया भ्रमरमालया हेतुभूतया का नामात्र पर्वतं कान्तं न नमति न प्रणमतीति न, न सुखेन आनम्यते इति अस्वानमा या प्रागासीत् साप्युद्दीपनप्रकर्षे निःशेषितमाना नमतीत्यर्थः ॥