साधारण्येति । संस्कृतस्य प्राकृतादिसाधारण्ये पञ्च प्रकाराः, प्राकृतस्य शौरसेन्यादिसाधारण्ये चत्वारः, शौरसेन्याः पैशाच्यादिसाधारण्ये त्रयः, पैशाच्या मागध्यादिसाधारण्ये द्वौ, मागध्या अपभ्रंशसाधारण्ये एक इति । द्विविकल्पे पञ्चदश प्रभेदाः, त्रिविकल्पे विंशतिः, चतुर्विकल्पे पञ्चदश, पञ्चविकल्पे षट्, षड्विकल्पे एकः, इति सर्वमिलने सप्तपञ्चाशत्प्रकारा साधारणी । एवं मिश्रादावपि लोष्टप्रस्तावक्रमेण बहवो भेदा इति तावदुदाहरणे ग्रन्थगौरवं स्यादिति दिङ्मात्रमुदाहरति—तास्विति । संभिन्नसंस्कारा भाषाप्रयोगे हि प्रयोक्तृप्रकृतिसंभेदे भवति । न च प्रकृतिसंभेदस्तात्त्विकः स्वभावसंकरप्रसङ्गात् । अत उक्तं मध्यमपात्रभूमिकास्थेति । भूमिका वर्णिका । मध्यमपात्रप्रकृत्युचितो रागाद्यभिनयस्तत्र तिष्ठति तत्परिग्रहेण त्रिचतुर(?)गवत्सामाजिकानां सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिविलक्षणप्रतिपत्तिपदवीमवतरतीति मध्यमपात्रभूमिकास्थम्, उपलक्षणं चेदम् । उत्तमभूमिकास्थमध्यमप्रयोज्यापीयमेव । एवमुत्तरत्र । तव विरहायासं सोढुं मम चित्तमसहमिति योजना ॥