प्रवणं प्रकृष्टतरवनम् । ‘प्रनिरन्तःशर—’ इत्यादिना णत्वम् । अदभ्रेण महता मदेन दर्पेण चलन्तो ये वयः पक्षिणस्तैः पराजिता मूढवयोबालाः पक्षिणो यत्र तम्, अलमत्यर्थं पूर्वोक्तरूपानमूढान् वीन् पक्षिणो मलते धारयतीति वा । अहिततरङ्गं भुजङ्गव्याप्तावर्तस्थानम् । विरसमतलस्पर्शतया भूभागरहितम् । सदा सर्वकालं तिमिभिर्महामत्स्यैः श्रितमाश्रितम् । अच्युतस्य भगवतो नारायणस्य धाम विश्रान्तिस्थानम् । प्रतीतः प्रख्यातः शिखी वडवानलस्तेन चरितवनं भक्षितजलोत्पीडमिति प्रथमः श्लोकार्थः । प्रवणमदाः मदायत्तदर्पाः सततनिस्यन्दमानमदजलाश्च भ्रमन्तो ये मैनाकप्रभृतयोऽचला द्विपाः करिमकराश्च तैः शोभितम् । ऊढा विमला स्वभावनिर्मला महिताः पूजितास्तरङ्गा येन तम् । विरसं क्षारम् । सतीभिः शोभ-221 नाभिरातिभिः पक्षिविशेषैर्भिश्रितं करम्बितम् । न च्युतं धाम तेजो यस्य तम् । प्रतीताः प्रत्यागताः शिखिनो मयूरास्तैश्चरितवनं भ्रान्ततीरकाननं समुद्रं पश्येति वाक्यान्तरवर्तिक्रियया संबन्ध इति द्वितीयः श्लोकार्थः ॥