बन्धावृत्तिसामान्याद्यमकानन्तरं श्लेषं लक्षयति—एकरूपेणेति । अर्थभेदेन शब्दा भिद्यन्त इति नये कथमेकेन वाक्येन द्वयोरुक्तिरित्यत आह—तन्त्रेणेति । श्लेषो हि संभेदलक्षणः । स चात्र भिन्नानामपि शब्दानामुच्चारणसाम्येन प्रवर्तते । अनेकसंबन्धानामैकरूप्येण वर्तनं तन्त्रमित्युच्यते ।