व्रणरूढिस्थानं श्यामं भवतीति लाञ्छनच्छायाभूता कीदृशी हरिणी हरिता । वर्णादनुदात्तात्तोपधात्तो नः’ इति ङीपि नादेशे च रूपम् । सेयं प्रतीयमानगुणनोत्प्रेक्षा । अहरिणरूपापि व्यवहारारूढहरिणतामापन्नेति च्विप्रत्यये च हरिणीभूते रूपम् । अत्र डीपश्च्वेर्वा न किंचिद्भेदकं निबद्धमिति निरुद्भेदः प्रत्ययश्लेषोऽयम् । हरितहरिणरूपे प्रकृती अपि संभिन्ने एव । संकरस्यादूषणत्वात् । एवं पूर्वोदाहरणेऽपि ॥