अत्र येनविषं निजगले, भुजगराजश्च निजगले बभ्रे, अङ्गजो देहे, जाया च दध्रे इति तिङ्सुब्विभक्त्योः लिडात्मनेपदप्रथमपुरुषैकवचनसप्तम्येकवचनान्तयोरेकरूपत्वाद्विभिन्नार्थकत्वाद्भिन्नजातीयसुप्तिङ्विभक्तिश्लेषोऽयम् ॥