निजगल इति गिरतेः कर्मणि लिटि रूपम् । येन विषं कालकूटाख्यं निगीर्णम्, निजे च गले कण्ठे भुजगराजो धृतः । देह इति दहतेस्तत्रैव [कर्मणि लिटि] रूपम् । अङ्गजः कामो येन दग्धः, निजे च देहे शरीरे जाया पार्वती धृता स जयतीति । विवरणग्रन्थः सुबोध एव ॥