अरीणां भेदः शरीरधातुभेदः, पलं मांसमश्नाति यः स तथा, चकार उत्तरवाक्यापेक्षया । अरिभेदो विट्खदिरः पलाशः किंशुकः सालास्तरुविशेषास्तेषां काननम्, अलकाश्चूर्णकुन्तलास्तत्सहितमाननं च । पूर्वोत्तरार्धयोर्नैकवाक्यत्वमुदाहरणत्वात् । ननु विभक्त्यन्तान्नान्यत्पदं तत्र पूर्वभागेन प्रकृतिश्लेष उत्तरभागेन च प्रत्ययश्लेष उद्दिष्ट एव, तत्कोऽन्य, पदश्लेष इत्यत आह—अत्रेति । प्रकृतिप्रत्ययभावविवक्षाविरहे नाममालोक्तानि प्रातिपदिकान्येवावशिष्यन्त इत्यर्थः ॥