‘अलंकारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी वसु च वृष एको बहुवयाः ।
अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥’

इति वर्णश्लेषः काश्मीरकैः पृथगुदाहृतः । अत आह—वर्णश्लेषोऽपीति । अवयवाभेदे समुदायसंभवादवयवभेदे च समुदायभेदध्रौव्यात्पदश्लेषव्यवस्थितौ तत्रैवास्यान्तर्भावो युक्त इति भावः । अलमत्यर्थं पाता रक्षिता, आशानां निबन्धनं मनोरथसफलीकरणबीजं, आशानां दिशां संश्लेषस्थानम्, चामरमरुद्भूमिः स्वर्लोकोऽमराणामिन्द्रादीनां भूमिरमरावत्यादिर्मरुतां च विवहादीनां भूमिर्वैमानिकपथश्चामरमरुद्भूमिश्चामरमरुतामाश्रयश्च । कथमत्र वर्णश्लेष इत्यत आह—अत्रेत्यादि । ‘पतिचण्डिभ्यामालञ्’ इति पतेरालञ्प्रत्यये पातालमिति रूपसिद्धावाकार एव मध्यवर्तिवर्णः, तत्रैव पुनरेकदेशप्रतिसंधाने पातालमित्याकारश्च प्रतीयते । अत्र च ‘एकः पूर्वपरयोः’ इति वचनादाकार एव श्रूयते तेनोत्तरः पौरस्त्येन संभिन्नः । एवं चकारस्योत्तरसंभेदो व्याख्येयः ॥