तत्र रुद्राणीपक्षे—हे उमे, हरे भवे वरं श्रेष्ठ भावं कुरु । किंभूते । लालसभूलेहे लालसभूः कामस्तं लेढि यस्तस्मिन् । तथा महिम्ना प्रभावेणोहं वितर्कमपहरति यस्तस्मिन्महिमोहहरे । महेश्वरसंनिधौ हि सर्वज्ञानाभिभव इति श्रूयते । अतएव तोहन्ति अर्दयन्ति तुहा अरयस्तैर्विच्छिन्ने विरहिते । अपरमप्यरीणां विच्छेदकारणमाह—हरिणारिसारदेहे हरिणारिः सिंहस्तस्य सारो बलं स देहे यस्य तस्मिन् । वरे परि-227 णेतरीति । उमाया एव वा इमानि संबोधनविशेषणानि । कान्तापक्षे तु—हे कान्ते, तव योऽयं हरिनार्याः श्रियाः सार उत्कृष्टो देहस्तत्र यद्वरं श्रेष्ठं विलोचनाननस्तनजघनादि तन्मे भावमभिलाषं हरतु । कामान्पूरयत्वित्यर्थः । किंभूते देहे । कुटिलालसभ्रूलेखे महिमोहहरे गृहे हारिणि विच्छिन्ने च तनुमध्यत्वादिभिरिति ॥