एवं पैशाचादिभिरपि संस्कृतस्य प्राकृतादेश्च परस्परसंभेदनाच्छ्लेषो गवेषणीय इत्याशयवानाह—यथा वेति । अकलङ्कं दोषरहितं मानयेति धात्वर्थस्य भाव्यत्वेनान्वयात्पूजां कुर्वित्यर्थः । ब्रह्माणमभिलक्षीकृत्येति । रुचय आत्मीयाः । अरा विद्यन्ते यस्य तदरि चक्रम् । हेतयः किरणाः । जननं जन्म । सामानि कायति कीर्तयतीति ‘अपवादविषये क्वचिदुत्सर्गः प्रवर्तते’ इति कर्मण्यम् । कला अवयवाः प्रसिद्धाः । वीनां पक्षिणां राजा गरुडस्तभभि इतं गतम् । कमला लक्ष्मीस्तस्या आसनमधिष्ठानं मा मां नयेति ॥