एवं स्थिते सामान्यलक्षणविभागमाह—श्रुतिभिरिति । आवृत्तिर्द्विधा—वर्णमात्रावलम्बिनी, समुदायगोचरा च । आद्यापि द्विधा—सामान्यतः रूपतश्च । सामान्यमपि द्विधा—स्थानतः, व्यापारतश्च । तत्र स्थानं कण्ठादिलक्षणं सैव श्रुतिः । श्रूयते हि तयाभिव्यक्तो वर्णव्यापारोऽभिव्यञ्जनरूपः, स एव रसविषये वर्तनं वृत्तिरुच्यते । श्रुतिभिरित्यादौ इत्थंभूतलक्षणे तृतीया ॥