विमुच्येति । हारोचितसंनिवेशयोरपि स्तनयोरनुचितवल्कलबन्धसंभावने हेतुरहार्यनिश्चयेति । अत एव सा मां कोऽपि वारयेदिति कातरताप्रादुर्भावादितस्ततो विलोलदृष्टिः । अत्र हकारमकारावोष्ठ्यौ, चकारयकारौ तालव्यावित्यादिना क्रमेण मसृणा हकारादीनां रूपसाजात्येऽपि मसृणताप्राधान्याद्वर्णमसृणा चावृत्तिरित्याह—अत्र सर्वमिति । वर्णोत्कटत्वं व्याचष्टे—वर्णाधिक्ययोग इति । उद्भटं हि रूपसाजात्यं वर्णोत्कटत्वम् । तच्च सरूपवर्णावृत्त्याधिक्येनेत्यर्थः ॥