ग्राम्यवैपरीत्येनेति । ग्राम्यविरुद्धस्वभावो हि लोके नागर इत्युच्यते । अतिप्रसिद्धेरभावो विरोधस्तेनालंकारसमयोपजीविपञ्चषप्रसिद्धिरनतिप्रसिद्धिरित्युक्तं भवति । एतदेव पूर्वाचार्यमतेन विशदयति—यथोच्यत इति । एकश्रुतिकतया भानं हि श्रुतिसाजात्यमभिमतम् । श्रुतिश्च वास्तवी प्रतिपादनमात्रारूढा वेति न कश्चिद्विशेषः । ततो भेदेऽप्येकत्वबुध्द्यानुप्राससिद्धिः । तत्त्वे एकत्वे । आपाततः साजात्यानवभासेऽपि सहृदयप्रणिधानेनावभासनं श्रुत्यनुप्रासप्रयोजकमेव । अनुप्रासस्य । अनुप्रासवतः संदर्भस्येत्यर्थः । विजातीययोरेकजात्यप्रतिबिम्बनं द्विधा भवति स्थानसाम्ये तदसाम्ये च । तयोराद्यमुदाहरति—तत्रेति । दीर्घेण रंहसेति, घोरोऽङ्घ्रिरिति, रंहःसङ्घमिति, घकारहकाराणां स्थानसाम्येऽपि वैजात्यमस्त्येव । तथा पठितौ तुल्यवच्छ्रुतिः प्रतिभातीति सहृदयहृदयसाक्षिकोऽयमर्थः ॥