उभयगुणयोगादिति । प्रसिध्द्यप्रसिद्धी द्वौ गुणौ । अत्र प्रत्यक्षानुमानरूपोपायभेदादविरोधः । तदेतदन्यमतेन विवृणोति—डलयोरैक्यमिति । सनीडः समीपं जलमज्जनशेषाहिवडवानलानामनर्थनिदानतया प्रख्यातानामपि सेवया महासाहसिकानामग्र्यता । अत्र डकारलकारयोर्भिन्नश्रुतिता प्रत्यक्षत एव । श्रुतिसाम्यं पुनरनुमानात्प्रतीयते । एवमुत्तरोदाहरणेष्वपि बोद्धव्यम् ॥