दुर्विदग्धादीति । नागरकभावमवाप्तस्तद्भूमिकामवलम्बमानो दुर्विदग्धः । आदिपदात्पूर्वोक्ताः समस्यादयः । अकटमाश्चर्यम् । गुमटी मनोज्ञा । आस्फालितखङ्गस्येव स्फुरणे लवइ इति महाराष्ट्रदेशी । तथा च प्रयोगः—‘लवइ अ 148 विज्जूमणोहरी’ इत्याराध्याः । अन्ये तु लपतीत्यर्थमाहुः । एवं च कलशब्दः पुष्यतीति । याम्यो दक्षिणः । निवाअर निर्वञ्चको वारकशून्यो वा इदावारक इति । अला आगतः । यदिह मानो न क्रियेत ज्योत्स्नादयो मनोमुदमेवाधास्यन्तीति प्ररोचना । यदा तु ‘मनोनुदे’ इति पाठोऽपिशब्देन नायकसाधारणमुत्कण्ठाकारित्वमुक्तं चन्द्रज्योत्स्नादीनामिति । अतो नकजनकजन्नार्थो नार्थ ईर्ष्यारोषलक्षणेन प्रतिकूलभावावलम्बिना मानेन, तस्मात्प्रियमेव प्रतिजाहुदा यामः, यदामनन्ति स्वयं वा तत्र गमनमिति ॥